षत्वे णत्वे च दीर्घत्वे - आकारे सानुनासिके।
त्रिचतुष्पञ्चक्रमे अर्द्धर्चान्ते च वेष्टयेत्।। 1।।
क्रमेणोदाहरणानि ज्ञातव्यानि।
षत्वे यथा - सुषुमा यातम् (अष्ट 2 अं 2 वर्ग 1)।
णत्वे यथा - मो षुणः (अष्ट 1 अं 3 वर्ग 16)।
दीर्घे यथा - वाजेषु सासहिर्भव (अष्ट 3 अं 2 वर्ग 22)।
आकारे यथा - चर्कृष आँ उपानसः (अष्ट 8 अ 5 वर्ग 26)।
सानुनासिकस्य, त्रिक्रमे च यथा - न्याविध्यदिलीविशस्य (अष्ट 1 अ 3 वर्ग 3)।
चतुष्क्रमे यथा - अगा दारैगु कृष्णा (अष्ट 1 अं 8 वर्ग 1)।
पञ्चक्रमे यथा - निरु स्वसार मस्कृतोषसम् (अष्ट 8 अं 7 वर्ग 14)।
अर्धर्चान्ते यथा- अग्निमीळे। ईळे पुरोहितम्। ... देवमृत्विजम्। ऋत्विज मित्यृत्विजम् - इति।
चतुस्त्रिंशत्सहस्राणि (34,000) क्रमकाले वेष्टनानीत्यर्थः।
द्विखण्डानां सहस्राणां द्वात्रिंशत् षोडशोत्तरा।
षोडशोत्तरद्वात्रिंशत् सहस्राणि (32,016) द्विखण्डानीत्यर्थः।
(द्विखण्डो यथा - पुरः-हितम्। रत्न-धातमम् इत्यादयः। पूर्व- उत्तर खण्डद्वय घटितं समासादिरूपं पदं द्विखण्डशब्देन व्यवह्रियते।) तानि द्विखण्डानि 32,016 वर्तन्ते।
चत्वारिंशत्सहस्राणि द्वात्रिशतं चाक्षरसहस्राणि।
चतुर्लक्ष-द्वात्रिंशत्सहस्रा-ण्यक्षराणि 432,000 इत्यर्थः। द्वात्रिंशतं चाक्षरसहस्राणि इत्यर्थसमाप्तेः (सहस्रशब्दस्य) पुनर्वचनमुक्तम्।
अथ पारायणे ऋक्परिमाणा उच्यन्ते-
ऋचा न्दश सहस्राणि ऋचां पञ्च शतानि च।
ऋचामशीतिपादाश्चै- तत् पारायणमुच्यते।। 1।।
एतत्पारायणं वालखिल्यैर्विना सङ्ख्यातम्। वालखिल्यानि पारायणे न सन्ति। तदुच्यते- ऋग्वेदान्तर्गत वालखिल्यम् एकादशसूक्तम् (तस्मिन् 11 सूक्तानि)। सूक्तसहस्र 1,000 सप्तदशाधिकम् (17) इत्यत्र ऋचां दशसहस्राणीत्येतत्सङ्ख्याव्यतिरिक्तानि वालखिल्यानीति प्रसिद्धिः। तत्र यज्ञानुष्ठाने ब्राह्मणे सूत्रे च श्रूयते -
वालखिल्याश्शंसन्ति प्राणा वै वालखिल्या (ऐ ब्रा 6 पञ्चि. 25 ख.) इति। अभि प्र वस्सुराधसम् (अष्ट 6 अ 4 वर्ग 14 ) इति ब्राह्मणे। आरण्यके यथा- अथ वालखिल्या विहरेत्ष तदुक्तं षोडशिना इति सूत्रकारः। श्रौत- स्मार्त सर्वकर्मानुष्ठाने वालखिल्यप्रिद्धिर्वर्तते। तथापि वेदपारायणे वर्जमित्यर्थः, शौनकाचार्यवचनात्। यथा-प्रैषाध्याय, कुन्तपाध्याय, निविदाध्याय, सुपर्णाध्यायश्चेति। तद्वद्वालखिल्याध्याय इत्यर्थः।
वालखिल्यसहिता सर्वानुक्रमणीय मन्त्ररूपी ऋक्सङ्ख्योच्यते- द्विपञ्चाशदधिक- पञ्चशत- दशसहस्राणीति 10552। वालखिल्य-व्यतिरिक्तसङ्ख्या तु द्विसप्तत्यधिक- चतुश्शत- दशसहस्राणि ऋचः 10472। एतत्सङ्ख्या नित्या द्विपदा- नैमित्तिकद्विपदा- सहिता उक्ता। हवनाध्ययनाभ्यां समाना सा नित्या द्विपदा। आसाञ्च सङ्ख्या उपलेखायाम्।
तच्च- साधु र्न गृध्नुः(अष्ट1 अ5 वर्ग14), असिक्न्या मरुत्वृधे वितस्तया (अष्ट6 अ5 वर्ग23), सिषक्तु न ऊर्जव्यस्य (अष्ट4 अ2 वर्ग 16) उरौ देवा अनिबाधे (अष्ट4 अ2 वर्ग22), विद्वेषांसी नु हि (अष्ट4 अ5 वर्ग 12), अया वाजं देवहितम् (अष्ट4 अ6 वर्ग3), महि राधः विश्वजन्यं (अष्ट4 अ7 वर्ग34), आ वां सुम्ने (अष्ट5 अ1 वर्ग4), ते ते देवाय (अष्ट5 अ2 वर्ग23) रायस्कामः विश्वप्स्न्यस्य स्तौत् (अष्ट6 अ3 वर्ग17) प्रति न स्तोमं (अष्ट5 अ3 वर्ग21), स्वायुधासः (अष्ट5 अ4 वर्ग24) पितुर्न पुत्रःउपसि अष्ट6 अ1 वर्ग34) स नो वाजेषु (अष्ट6 अ4 वर्ग3) गावो न यूथं (अष्ट6 अ4 वर्ग6), पवस्व सोम मन्दयन् (अष्ट7 अ2 वर्ग16) इति तिस्रः, परिसुवानो गिरिष्ठाः (अष्ट6 अ8 वर्ग8) नृभिर्ये मा नः (अष्ट7 अ5 वर्ग15), प्रत्यञ्चमर्क मनयञ्छचीभिः (अष्ट8 अ8 वर्ग15) इति द्विपदैकपदा द्वाविंशतिः।
तासां सप्तदश 17 द्विपदाः, एकपदाः पञ्च 5 इति। हवनाध्ययने विपरीता, सा नैमित्तिकद्विपदा। ता आह वर्गरूपेण- पश्वा न तायुं (अष्ट1 अ5 वर्ग9) दश, रयिर्न चित्रा (अष्ट1 अ5 वर्ग10) दश, वनेषु जायुः (अष्ट1 अ5 वर्ग11) दश, श्रीणन्नुपस्थात् (अष्ट1 अ5 वर्ग12) दश, शुक्र श्शुशुक्वान् (अष्ट1 अ5 वर्ग13) दश, वनेम पूर्वीः (अष्ट1 अ5 वर्ग14) दश, अग्ने त्वन्नो अन्तमः (अष्ट4 अ1 वर्ग16) चत्वारि, अग्ने भव सुषमिधा (अष्ट5 अ2 वर्ग23) षट्, प्रशुक्रैतु देवी (अष्ट5 अ3 वर्ग 25) दश, राजा राष्ट्राणां पेशो (अष्ट5 अ3 वर्ग26) दश, क ईं व्यक्ता नरः (अष्ट5 अ4 वर्ग23) दश, बभ्रुरेको विषुणः (अष्ट6 अ2 वर्ग36) दश, परि प्रधन्वेन्द्राय (अष्ट7 अ5 वर्ग20) दश, तन्ते सोतारो रसं (अष्ट7 अ5 वर्ग21) द्वादश, इमा नुकं भुवना (अष्ट8 अ8 वर्ग15) चत्वारि, आयाहि वनसा (अष्ट8 अ8 वर्ग30) चत्वारीति नैमित्तिकद्विपदा चत्वारिंशोत्तरशतम् 140 इति।
हवने एकैका। अध्ययने द्वे द्वे। आसाम् अन्त्या एका उर्वरिता, सा नित्या द्विपदा। उक्तञ्च परिभाषायाम्-
विंशिका द्विपदा विराज, स्तदर्द्धमेकपदा द्विर्द्विपदा स्तृच स्समामनन्ति। आयुक्ष्वन्त्या द्विपदैव (परिभा 12 खं) इति।
द्विर्द्विपदास्तृच स्समामनन्ति। यस्य सूक्तस्य द्विर्द्विपदा स्समामनन्ति तास्तृचः, अध्ययने चतुष्पदाः कृत्वेत्यर्थः। आ युक्ष्वन्त्या द्विपदैव। सूक्तस्यर्चा युजो या न भवन्ति, तास्वन्त्या नित्या द्विपदैव। एवमध्ययने द्वावर्द्धर्चौ एका ऋगित्येव प्राधान्यम्।??
त्रीण्यर्द्धर्चायाः कथम्? तत्रापि द्वावर्द्धर्चौ एका ऋचा, अर्द्धर्चा एका कर्तव्या- अध्ययनसम्प्रदायबलात्।
अनादेशेष्टाक्षराः पादा- श्चतुष्पदाश्चर्च (परिभा 3खं) इति परिभाषायाम्। अध्ययने त्रीण्यर्द्धर्च-ऋगेव इति सम्प्रदायो नास्ति।
आसां परिमाणमाह- अग्निं होतारम् (अष्ट2 अ1 वर्ग12) पञ्च, स हि शर्द्धो न (अष्ट2 अ1 वर्ग13) षट्, अयं जायत मनुषः (अष्ट2 अ1 वर्ग14) पञ्च, विश्वो विहायाः (अष्ट2 अ1 वर्ग15) तिस्रः, यन्त्वं रथमिन्द्र (अष्ट2 अ1 वर्ग16) पञ्च, प्रतद्वोचे यं हव्याय (अष्ट2 अ1 वर्ग17) षट्, एन्द्र याह्युप नः परावतः (अष्ट2 अ1 वर्ग18) पञ्च, इमान्ते वाचं (अष्ट2 अ1 वर्ग19) चत्वारि, स नो नव्येभिर्वृषकर्मन् (अष्ट2 अ1 वर्ग19) वर्जम् (इमान्ते वाचमिति वर्गे अन्त्या चतुष्पदा)। इन्द्राय हि द्यौः (अष्ट2 अ1 वर्ग20) सप्त, त्वया वयं मघवन् (अष्ट2 अ1 वर्ग 21) षड्, अव र्मह इन्द्र दादृहि (अष्ट2 अ1 वर्ग22) एका, वनोति हि सुन्वन् (अष्ट2 अ1 वर्ग22) एका, आत्वा जुवो रारहणा (अष्ट2 अ1 वर्ग23) षट्, स्तीर्णं बर्हि रुपनो याहि (अष्ट2 अ1 वर्ग24) पञ्च, इमे वां सोमा (अष्ट2 अ1 वर्ग25) एका, इमे ये ते सुवायो वा (अष्ट2 अ1 वर्ग25) एका, प्रसुज्येष्ठ न्निचिराभ्यां (अष्ट 2 अ1 वर्ग16) षट्, ऊती देवानाम् (अष्ट2 अ1 वर्ग26) वर्जम्। सुषुमा यातम् (अष्ट2 अ2 वर्ग1) त्रीणि, प्रप्र पूष्णस्तुविजातस्य (अष्ट2 अ2 वर्ग2) चतुष्कम्, अस्तु श्रौषट् पुरोअग्निं (अष्ट2 अ2 वर्ग3) चत्वारि, शचीभिर्न श्शचीवसो (अष्ट2 अ2 वर्ग3) वर्जम्। वृषन्निन्द्र वृषपाणासः (अष्ट2 अ2 वर्ग4) पञ्च, ये देवासो दिव्येकादश (अष्ट2 अ2 वर्ग4) वर्जम्। तवत्यन्नर्यं बाह्वोः (अष्ट2 अ6 वर्ग28) एका, सखे सखायम् (अष्ट3 अ4 वर्ग12) एका, अया रुचा हरिण्या (अष्ट7 अ5 वर्ग23) त्रीणि, एतास्त्रीणि त्रीण्यर्द्धर्चा ऋचा हवनीया श्चतुर्न्नवतिसङ्ख्या। इति त्रीण्यर्द्धर्चा ऋग्घवने। अध्ययने अर्द्धर्चद्वयेन ऋगेका। अर्द्धर्चेनैकैव ऋग्द्वये कर्त्तव्य इत्यर्थः।
एकर्चस्य ऋग्द्वयं विराट् छन्दो विना कथं भवति? इत्याशङ्क्य तत्रोच्यते - विराट् छन्दः सर्वच्छन्दसि व्याप्तं वर्त्तते। उक्तं चारण्यके- चत्वारः पुरुषा इति वाध्वः- शरीरपुरुष श्छन्दःपुरुषो वेदपुरुषो महापुरुष इति (शा आर अ8 खं3)। तस्योष्णिग्लोमानि त्वग्गायत्री त्रिष्टुम्मांस मनुष्टुप् स्नावान्यस्थि जगती पङ्क्तिर्मज्जा प्राणो बृहती (ऐ आर 2 खण्ड6) इति। यान्येतानि विराट्चतुर्थान्येवमु हैवैवँविदुष एतदह स्सर्वैश्छन्दोभिः प्रतिपन्नं भवति (ऐ आर 1 खएड 12) इति प्राप्तो भवतीत्यर्थः। गायत्रीश्च पङ्कीश्च व्यतिषजति गायत्रो वै पुरुषः पाङ्क्ताः पशव इति ब्राह्मणम्।
अत्रोदाहरणम् - पवस्व सोम मन्दयन् (अष्ट7 अ2 वर्ग16) तिस्रो नित्यद्विपदा गायत्र्यः इति सर्वानुक्रमण्याम्। द्विपाद्वै पुरुषो वीर्यं त्रिष्टुब्विराड्भ्या मनयो र्द्वाविंश्यो र्द्विपदयो रयं पुरुषः। अत्रोदाहरणानि- आवां सुम्ने वरिमन्थ्सूरिभिष्ष्याम् (अष्ट5 अ1 वर्ग4), प्रत्यञ्चमर्क मनयन्नभि द्याम् (अष्ट8 अ8 वर्ग15) परिसुवानो गिरिष्ठा (अष्ट6 अ8 वर्ग8) जगती पाद इति। एवं सर्वव्याप्तो भवतीत्यर्थः। छन्दांसि जज्ञिर इति श्रुतिः।
तथा च शतपथब्राह्मणे- किञ्छन्दः का देवता प्रतिष्ठे इति - द्विपदा छन्दो विष्णुर्देवता प्रतिष्ठे इति। यथा विष्णु स्सर्वव्याप्त स्तथा विराट्छन्द इत्यर्थः।
विराट् छन्दस्तु चतुष्पदा। त्रीण्यर्द्घर्चायां पञ्चपदा ऋक्कर्त्तव्येति। किं प्रमाणम्? तत्रोच्यते-
एकपाद्भूयो द्विपदो विचक्रमे द्विपात्त्रिपादमभ्येति पश्चात्। चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन्पङ्क्तीरुपतिष्ठमानः।। (अष्ट8 अ6 वर्ग 23)।
एकपदा द्विपदा नित्या द्विपात् त्रिपादमभ्येति एकीभूता भवन्तीत्यर्थः। अस्योदाहरणम्
अग्निं होतारं मन्ये .. वेदसम्। य ऊर्ध्वया ... कृपा (अष्ट2 अ1 वर्ग12)। अग्रे अर्द्धर्चा - घृतस्य विभ्राष्टि मनुवष्टि .. सर्पिषः ( अष्ट2 अ1 वर्ग12) इति द्विपदा। पञ्चपदायाः विराट्छन्दस्काया ऋचः उदाहरणमेतत्।
चतुष्पदातु - पश्वा न तायुम् .. यजत्राः।(अष्ट1 अ5 वर्ग9)। एका अर्द्धर्चा त्रिपदा, एकार्द्धर्चा द्विपदा, (आहत्य) एका ऋक् पञ्चपदा अध्ययने। द्विर्द्विपदास्तृच स्समानन्ति इत्यत्र समपादग्रहणात्। असमानपादा विरुद्धा, तार्हि पङ्क्तिच्छन्दो पञ्चपदा भवति। तस्य द्वितीयभेदो विराट्, तस्मात्पञ्चपादत्वं प्राप्तम्। समपादा वा असमपादो विराट् छन्द इत्यर्थः। अत्र श्रुतिः-
समौ चिद्धस्तौ न समँ विविष्ट स्संमातरा चिन्न सम न्दुहाते (अष्ट8 अ6 वर्ग23) इत्यनया ऋचा परिहारः। दक्षिणवामहस्तौ समौ कर्तृत्वे असमावित्यर्थः।
ऋक्संख्या
अथाध्ययने ऋक्सङ्ख्योच्यते। षण्णवत्यधिक- चतुश्शत- दश सहस्राणीति 10,496। ताः सहितनैमित्तिक द्विपदाः चत्वारिंशोत्तर- शतसहित- दशसहस्राणीति। 10140 (10566?)। सञ्ज्ञानमुशनावदत् सूक्तस्य पञ्चदशर्चैकीकृत्य 10580 एवं पारायणे ऋक्सङ्ख्या। ऋचां दशसहस्राणि इति वचनस्य सङ्ख्या पूर्णा भवतीत्यर्थः।
एका उर्वरिता। सा- भद्रन्नो अपि वातय मनः (अष्ट7 अ7 वर्ग2) इति पादाधिक्यमनुक्रमणिकावृत्तावप्युक्तेः। भद्रं पुच्छम् (ऐ आर खं 8) इत्यारण्यके।
अथ सञ्ज्ञानसूक्तम्-
संज्ञान मुशनावद त्संज्ञानँ वरुणोवदत्। संज्ञान मिन्द्र श्चाग्निश्च संज्ञानं सवितावदत्।।
संज्ञानँ व स्स्वेभ्य स्संज्ञान मरणेभ्यः। संज्ञान मश्विना युव मिहास्मासु नि यच्छताम्।।
यत्कक्षीवां सँवननं पुत्रो अङ्गिरसां भवेत्। तेन नोद्य विश्वे देवा स्सं प्रियां समजीजनन्न्।।
सँ वो मनांसि जानतां समाकूति र्मनामसि। असौ यो विमना मन स्सं समावर्तयामसि।।
नैर्हस्त्यं सेनादरणं परि वर्त्मेतु यद्धविः। तेनामित्राणां बाहू न्हविषा शोषयामसि।।
परि वर्त्मान्येषा मिन्द्र पूषा च सस्रतुः। तेषाँ वो अग्निदग्धाना मग्निमूळ्हाना मिन्द्रो हन्तु वरँवरम्।।
ऐषु नह्यवृषाजिनं हरिणस्य धियँ यथा। परा अमित्रा ऐष त्वर्वाची गौरुपाजतु।।
प्राध्वराणां पते वसो होत र्वरेण्यक्रतो। तुभ्यङ्गायत्र मुच्यते।।
गोकामो अन्नकाम प्रजाकाम उत कश्यपः। भूतं भविष्य त्प्रस्तौति सह ब्रह्मैक मक्षरं बहु ब्रह्मैक मक्षरम्।।
यदक्षरं भूतकृतँ विश्वे देवा उपासते। महऋषि मस्य गोप्तारञ्जमदग्नि रकुर्वतम्।।
जमदग्नि राप्यायते छन्दोभि श्चतु रुत्तरैः। राजा सोमस्य भक्षेण ब्रह्मणा वीर्यावता।।
शिवा न प्रदिशो दिश स्सत्या न प्रदिशो दिशः। अजो यत्तेजो ददृश्रे शुक्रञ्ज्योति परो गुहा।।
यदृषि कश्यप स्स्तौति सत्यं ब्रह्म चराचर न्ध्रुवं ब्रह्म चराचरम्। त्र्यायुषञ्जमदग्ने कश्यपस्य त्र्यायुष मगस्त्यस्य त्र्यायुषम्।।
यद्देवाना न्त्र्यायुष न्तन्मे अस्तु त्र्यायुषं सर्व मस्तु शतायुषं बलायुषम्।।
तच्छँयो रावृणीमहे गातुँ यज्ञाय गातुँ यज्ञपतये। दैवी स्वस्ति रस्तु न स्स्वस्ति र्मानुषेभ्यः। ऊर्ध्वञ्जिगातु भेषजं शन्नो अस्तु द्विपदे शञ्चतुष्पदे।। (अष्ट8 अ8 परिशिष्ट)
इति सञ्ज्ञानसूक्तं पञ्चदशर्चात्मकम्। अस्य ग्रहणे प्रमाणमाश्वलायनसूत्रम्। तच्च- समानीव इत्येका, तच्छँय्योरावृणी मह इत्येकेति।
तथा च शाङ्खायनस्य कौषीतकी सूत्रम्- अथोपाकरणम् - ओषधीनां प्रादुर्भावे, हस्तेन श्रवणेन वाक्षतसक्तूनां धानानाञ्च दधि घृतमिश्राणां प्रत्यृचँ वेदेन जुहुयादिति हैक आहुः। सूक्तानुवाकाद्याभिरिति वाध्यायार्षेयाद्याभिरिति माण्डूकेयो,थ ह स्माह कोषीतकि रग्निमीडे पुरोहितामित्येका, कुषुम्भक स्तदब्रबी.. दावदँस्त्वं शकुने भद्रमावद, गृणाना जमदग्निना, धामन्ते विश्वं भुवनमधि श्रितं, गन्ता नो यज्ञँ यज्ञिया स्सुशमि, यो न स्वो अरणः, प्रतिचक्ष्व विचक्ष्वेन्द्रश्च, अग्ने याहि मरुत्सखा, यत्ते राजं घृतं हविरिति द्व्यृचा, तच्छँय्योरा वृणीमह इत्येका, हुतशेषाद्धविः प्राश्नन्ति (कौगृ सृ4 अ 5खं) इति। पञ्च शाखानां पारायणे- तच्छँय्योरा वृणीमह इत्यत्र समाप्तिः एकवेदत्वात्।
उक्तञ्च-
ऋचां समूह ऋग्वेदस्तमभ्यस्य प्रयत्नतः। पठित श्शाकलेनादौ चतुर्भिस्तदनन्तरम्।।
साङ्ख्याश्वलायनौ चैव माण्डूका बाष्कलास्तथा। बह्वृचा ऋषय स्सर्वे पञ्चैते ह्येकवेदिनः।। इति। साङ्ख्यानाम शाङ्खायन इति।
वर्गसंख्या
अथ पारायणे वर्गसङ्ख्योच्यते-
एकर्च एकवर्गश्च एकर्च नवकस्तया। एकर्च एकवर्गः - जातवेदसे (अष्ट1 अ7 वर्ग7) इत्यर्थः।
नवर्च एकवर्गः - आपो हि ष्ठा (अष्ट7 अ5 वर्ग5) इति।
द्वौ वर्गौ तु द्वृचौ ज्ञेयौ, द्वौ वर्गौ द्व्यृचावित्यर्थः। अग्ने त्वन्नो अन्तमः। (अष्ट4 अ1 वर्ग16) आ याहि वनसा सह (अष्ट8 अ8 वर्ग30) इति।
ऋक्त्रयस्य शतं स्मृतम्। तृचो वर्गाः शतमित्यर्थः (100)। उत त्यञ्चमसं नवम्। (अष्ट1 अ2 वर्ग2) इत्यादि।
चतुर्ऋचां पञ्चसप्तत्यधिकञ्च शतन्तथा। चतुर्ऋचवर्गाः पञ्चसप्तत्यधिकं च शतन्तथा।। चतुर्ऋचवर्गाः पञ्चसप्तत्यधिकशतम् (175) इत्यर्थः। यदङ्ग दाशुषे त्वम् (अष्ट1 अ1 वर्ग2) इत्यादि।
पञ्चर्चन्तु द्विशतकं सहस्रं रुद्रसंयुतम्। पञ्चर्चवर्गा एकादशाधिक द्वादश शतानीत्यर्थः (1211)। अग्निमीडे इत्यादि।
पञ्चचत्वार्यधिकन्तु षड्ऋचान्तु शतत्रयम्। षडृचवर्गाः पञ्चचत्वारिंश दधिक शतत्रयम् (345) इत्यर्थः। अश्विना यज्वरीरिषः (अष्ट1 अ1 वर्ग5) इत्यादि।
सप्त ऋचां शतं ज्ञेयं विंशतिश्चधिकास्स्मृताः। सप्तर्चवर्गा विंशत्यधिकशतम् (120) इत्यर्थः। यच्चिद्धि सत्यसोमपा (अष्ट1 अ2 वर्गा 27) इत्यादि।
अष्टर्चान्तु पञ्चाशत् पञ्चाधिकास्तथैव च। अष्टर्चवर्गाः पञ्चाधिकपञ्चाशत् 55 इत्यर्थः। इन्द्रँ विश्वा अवीवृधन्न् (अष्ट1 अ1 वर्ग21) इत्यादि।
एवं दशाधिक सहस्रद्वयवर्गा (2010) इत्यर्थः।
वर्गा स्सञ्ज्ञानसूक्तस्य चत्वारश्चात्र मेलिताः। सञ्ज्ञानसूक्तस्य चत्वारो वर्गाश्चात्र मिलित्वा दशाधिकसहस्रद्वयम् इत्यर्थः।
एवं पारायणे प्रोक्ता ऋचां सङ्ख्येन न्यूनतः। एवं पूर्वोक्तप्रकारेण वर्गस्य ऋङ्न्यूनसङ्ख्येन दशर्चस्य पञ्चऋक् त्रीण्यर्द्धर्चस्य ऋक्कर्तव्येत्यर्थः। एवं चतुर्विधपारायणेपि ज्ञेयम्।
समानीव (अष्ट8 अ8 वर्ग49) इति शाकलानां .. तच्छँय्योरिति बाष्कलानामित्यत्र, बाष्कलशाखाध्ययनमनुक्र णिकावृत्तावुक्तम्।
तच्च-
गौतमादौशिजः कुत्सः पारुच्छेपादृषेः परः। कुत्सादीर्घतमेत्येवं बाष्कलाध्ययने क्रमः।।
अस्यार्थः - गौतमादौशिजः कुत्सः। उपप्रयन्तो (अष्ट1 अ5 वर्ग21), नासत्याभ्याम् (अष्ट1 अ8 वर्ग8), अग्निं होतारम् (अष्ट2 अ1 वर्ग12), इमं स्तोमम् (अष्ट2 अ7 वर्ग6), वेदिषदे (अष्ट2 अ2 वर्ग5) एष बाष्कलक्रम इत्यर्थः। अत्रैवमुक्ते उत्तममण्डले नवके अनुक्रमविपर्यासः। तच्च- स्वादो रभक्षि (अष्ट6 अ4 वर्ग11) सूक्तान्ते अभिप्रव स्सुराधसम् (अष्ट6 अ6 वर्ग24) प्र सुश्रुतम् (अष्ट6 अ4 वर्ग 16) इति सूक्तद्वयं पठित्वा, अग्न आयाह्यग्निभिः (अष्ट6 अ4 वर्ग16) इति पठेत्। ततः आप्र द्रव परावतः (अष्ट6 अ6 वर्ग1) अध्याये गौर्धयति (अष्ट6 अ6 वर्ग28) अनुवाको दशसूक्तात्मक श्शाकलस्य। पञ्चदशसूक्तात्मको बाष्कलस्य। तत्रोच्यते - गौर्धयति सूक्तानन्तरं यथा मनौ सांवरणौ (अष्ट6 अ4 वर्ग20), उपमन्त्वा (अष्ट6 अ4 वर्ग22), एतत्त इन्द्र (अष्ट6 अ6 वर्ग24), भूरीदिन्द्रस्य (अष्ट6 अ4 वर्ग26) इत्यन्तानि पञ्च सूक्तानि पठित्वा, आ त्वा गिरो रथीरिव (अष्ट6 अ6 वर्ग30) इति पठेयुः। अन्ते - सं समित् (अष्ट8 अ8 वर्ग42) सूक्तानन्तरं पञ्चदशऋचात्मकं सञ्ज्ञानमुशनावदत् इत्यादि तछँय्योरावृणीमह इत्यन्तं वेदसमाप्तिरिति बाष्कलशाखाध्ययनम्। एवमध्ययनाभावात् शाखाभाव इत्यर्थः। सूक्तसहस्र - सप्तदशाधिकात् (1017) अष्टौ सूक्तानि बाष्कलस्याधिकानीत्यर्थः। प्रति ते (अष्ट6 अ4 वर्ग37) युवं देवा (अष्ट6 अ4 वर्ग28) यमृत्विजो (अष्ट6 अ4 वर्ग29), इमानि वाम् ( अष्ट6 अ4 वर्ग3) इति चत्वारि वालखिल्य सूक्तानां लोप इत्यर्थः।
यस्तानृग्वेदर्चैवाप्यधीते स नाकपृष्ठं भजते ह शश्वत्।
अस्यार्थः - यस्तान् ऋगर्थवित् वेद विदितः हवने पारायणे च अधीते, सः वेदिता अध्येता च नाकपृष्ठं शश्वत् सदा भजते। ह प्रसिद्धौ। इतोमुं लोकमेत्युत तस्मान्न प्रच्यवते हीत्यर्थः।
अथ पारायणफलं तदुक्तमारण्यके - यद्धि सन्धिं विवर्त्तयति तं निर्भुजस्य रूपमथ यच्छुद्धे अक्षरे अभिव्याहरति तत्प्रतृण्णस्य रूप, मग्र उ एवोभयमन्तरेणोभयव्याप्तं भवत्यन्नाद्यकामो निर्भुजं ब्रूयात्स्वर्गकामः प्रतृण्णमुभयकाम उभयमन्तरेणेति। अस्यार्थः- द्वयोः पदयोरक्षरयोर्वापि सन्धिस्तस्य अविच्छेदाध्ययनं तन्निर्भुजं संहितापारायणमुच्यते। शुद्धे द्वे पदे अक्षरे वा सन्धिमकुर्वता उच्चारणं तत्प्रतृण्णं तत्पदपारायणम्। संहितापदाभ्या मुभाभ्यां व्याप्तमुभयमन्तरेण क्रमपारायणमित्यर्थः।
तथा च सति, त्रिभिः कृत्वा स्वरास्वरं विजानाति मात्रामात्रां वि भजन्ते सा संहितेति। एवमेतां संहितां यो वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेतीति। तस्मात्क्रमादृते द्वे पदे संहिता, द्वे पदस्वरश्च न सिध्यति। द्वे पदसिद्धे उत्तरारम्भः कर्त्तुं न शक्यते। अतश्च पादार्द्धर्च ऋक्, सूक्तसिद्ध्यर्थं भगवता पाञ्चालेन स्थापितानां पारायणकर्मणां क्रमपारायणमुत्तमं भवतीति च । अत्र शलोकः -
प्रागाथेन पुरा दानं दृष्ट्वा क्रुद्धो महामुनिः। अर्थवन्तं क्रमं ब्रूयाद्देवतायाश्च शास्त्रतः।। अतो ऋग्यजुषां बृंहणं पदैः स्वरैश्चाध्ययनं तथा त्रिभिः।।
अतोपि अस्मादपि हेतोः क्रमः अर्थवान्भवति। क्रमेण कृत्वा ऋग्वेदपारायणे, ऋचां बृंहणं साधारणं भवति। इदमित्ययमेव पाठ इति स्वरमात्रादिरूपेण निश्चयो भवति। तथा यजुर्वेदपारायणे यजुषां बृंहणं नाम साधारणं स्वरमात्रादिरूपेण इदमित्थमेव पाठ इति निश्चयो भवति, इत्यतिदेशः। इत्यलं प्रपञ्चेन।
अथ पारायणविधिः। अत्रादौ कलशस्थापनाद्युक्तं महार्णवे-
तीर्थे देवालये गेहे प्रशस्ते सुपरिष्कृते।
कलशं सुदृढं तत्र सुनिर्णिक्तं सुभूषितम्।।1।।
पुष्पपल्लवमालाभिश्चन्दनैः कुङ्कुमादिभिः।
मृत्तिकायवसम्मिश्रं वेदमध्ये न्यसेत् ततः।।2।।
पञ्चाशद्भिः कुशैः कार्यो ब्रह्मा पश्चान्मुखस्थितः।
स्नापित स्स्थापितः कुम्भे चतुर्बाहुश्चतुर्मुखः।।3।।
वत्सजान्वाकृतिं वेदमुत्तराग्रैः कुशैः कृतम्।
ब्रह्मोपधाने दत्त्वा तं तत स्स्वस्त्ययनं पठेत् ।।4।।
प्रतिष्ठां कारयेत् पश्चात् पूजाद्रव्य मथोच्यते।
यज्ञोपवीतं नैवेद्यं वस्त्रचन्दनकुङ्कुमैः।।5।।
स्रग्धूपदीपताम्बूलै रेतैश्चापि पितामहम्।
ब्रह्म जज्ञानमिति वा गायत्र्या वा प्रपूजयेत्।।6।।
उपाध्यायञ्च सम्पूज्य यथापाठं पठेत् ततः।।
ततो वक्ष्यमाणं होमादि कृत्वा, पठेदित्यर्थः।
तत्रैव बौधायनः- स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय, तं परिस्तीर्याज्येनैताभ्यो देवताभ्यो जुहोति, अग्नये- सोमाय- विश्वेभ्यो देवेभ्यो- ब्रह्मणे- ऋषिभ्यो- ऋग्भ्यो- यजुर्भ्य- स्सामभ्य- श्श्रद्धायै- मेधायै- प्रज्ञायै- धारणायै- श्रियै- ह्रियै- सावित्र्यै- सवित्रे- प्रजापतये काण्डर्षये- ग्नये काण्डर्षये- विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः- संहिताभ्यो देवताभ्य उपनिषद्भ्यो- याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यो- वारुणीभ्यो देवताभ्य उपनिषद्भ्यो- हव्यवाहाय- विश्वेभ्यो देवेभ्यो- वरुणेभ्यो-नुमत्यै- स्विष्टकृते- च पृथक् स्वाहाकारेण हुत्वा, व्याहृतिभिश्च हुत्वा, पुनः परिषिञ्चति समाप्ते चैता, यजुषा तर्पयति।
अन्ते एता अग्निसोमाद्या यजुषा पदेन सह तर्पयेत्। यद्वा भूर्द्देवांस्तर्पयामि इत्यादि यजुषा तर्पयित्वान्यादींस्तर्पयेदित्यर्थः।
महार्णवे- एवमृग्वेदस्य काण्ड ऋष्यादिवर्ज, मास्विष्टकृत स्तेषां स्थाने- शतर्चिभ्यो माध्यमेभ्यो गृत्समदाय विश्वामित्राय वामदेवायात्रये भरद्वाजाय जमदग्नये गौतमाय वसिष्ठाय प्रागाथेभ्यः पावमानीभ्यः क्षुद्रसूक्तेभ्यो महानाम्नीभ्य इति। ततो वेदादिमारभ्य सन्तत मधीयीत इत्याह भगवान्बोधायनः।
पुनर्महार्णवे (पूर्वोक्त बौधायन वचनान्यनूद्यन्ते)
अथातः पारायणविधिं व्याख्यास्यामः। आसमाप्ते र्नाश्नीयाद्यथाशक्तिं वापः पयः फलान्योदनं वा हविष्यमात्रमन्न मल्पं भुक्त्वा, तदाशेषमधीयीत, ग्रामात्प्राच्यामुदीच्याँ वा दिश्युपनिष्क्रम्याग्निमुपसमाधाय परिस्तीर्येध्मं प्रज्वाल्याज्येनैताभ्यो देवताभ्यो जुहो- त्यग्नये सोमाये.न्द्राय प्रजापतये बृहस्पतये विश्वेभ्यो देवेभ्यो ब्रह्मण ऋषिभ्य ऋग्यजुर्भ्य स्सामभ्य श्श्रद्धायै मेधायै प्रज्ञायै धारणायै सदसस्पतयेनुमत्ये श्रियै ह्रियै सावित्र्यै सवित्रे- प्रजापतये काण्डर्षये- सोमाय काण्डर्षये-ग्नये काण्डर्षये- विश्वेभ्योदेवेभ्यः काण्डर्षिभ्य- स्सांहितीभ्यो देवताभ्य उपनिषद्भ्यो- याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यो- वारुणीभ्यो देवताभ्य उपनिषद्भ्यो- हव्यवाहाय- विश्वेभ्यो देवेभ्यो- वरुणेभ्यो-नुमत्यै- स्विष्टकृते च पृथक् स्वाहाकारेण हुत्वा, व्याहृतिभिश्च पुनः परिषिञ्चति समाप्ते चैता यजुषा तर्पयतीति। अन्ते एता अग्नि सोमाद्या यजुषा पदेन सह तर्पयेत्। यद्वा-भू र्द्देवांस्तर्पयामि इत्यादि यजुषा तर्पयित्वा, ग्न्यादींस्तर्पयेदित्यर्थः।
महार्णवे - एवमृग्वेदिनां काण्डर्ष्यादिवर्जमास्विष्टकृतस्तेषां स्थाने शतर्चिभ्य इत्यादि महानाम्नीभ्य इत्यन्तं प्राग्वत्।
ततो वेदादिमारभ्य सन्ततमधीयीत। नास्यान्तरानध्यायो नास्यान्तरा जननमरणे अशुचिः। आशौचं नेत्यर्थः। नान्तरा व्याहरेन्न विरमेद्यावन्तमधीयीत। यावत्पर्यन्तं पठेत् तावत्पर्यन्तं न विरमेन्नान्यच्च वदेदित्यर्थः। यदन्तरा विरमेत् त्रीन्प्राणानायम्य प्रणवं वा प्रविधाय यावत्कलमधीयीत। तत स्सर्वानिशान्तरं सङ्ग्रामारण्यसलिलं लोप्य परिदध्यात्। निशान्तरं सन्ध्यानिशादीन् लोप्य विहाय समापयेदित्यर्थः। आदावन्ते च ब्राह्मणभोजनं दक्षिणाञ्च दद्यात् - इति महार्णवोक्तं विधानम्।
अथ कमलाकरः-
य एतेन विधिना वेदमधीयीत सन्ततः पूतो वेदो भवति, मनश्शुद्धिश्च भवति वेदरूपो भवतीत्यर्थः।
द्वाभ्यां पारायणाभ्यां ऋग्भिश्च, अभोजनः इहाधीते अनृतेभ्यः प्रमुच्यते।
त्रिभिर्बहुभ्यः पतनीयपातकेभ्यः, शूद्रायां रेतस्सिक्त्वा गङ्गाप्सुवन्निमज्ज्यश्च भवति।
चतुर्भ्य श्शूद्रान्नभोजनात् स्त्रीसेवनाच्च,
पञ्चभि रयाज्ययाजनात् दग्राह्य ग्रहणात्,
षड्भिः ब्राह्मणस्य लोहितकरणात्- स्त्रीलोहित करणात्- पशुहननात्- सुवर्णस्तेयात्- पतित सँयोगाच्च,
सप्तभिः- प्राजापत्यस्य हीनचरणात्- यज्ञोपबन्धनाच्च
अष्टभिः- चान्द्रायणस्यान्तराचरणाद्, गुरुतल्पगमनात्, रजस्वलागमनाच्च,
नवभिः- सुरापाना
दशभिः - र्पूर्वजन्मेहजन्मकृतै स्सर्वैः पापैः प्रमुच्यते, स्वँर्गल्लोकं गच्छतीति।
अग्निष्टोमादिक्रतुभिरिष्टं भवति, पितॄन्त्स्वँर्गल्लोकं गमयति।
वेदाध्यायी सदैव स्यादपाप्मा सत्यवाक् शुचिः।
यँ यं कामं कामयते तन्तँ वेदेन साधयेत्।।
असाध्यं नास्ति यत्किञ्चिद्ब्रह्मणो हि फलं महत्।
ऋग्विधाने सावित्री गायत्री मन्त्र प्राशस्त्यम्
आदावेव तु सावित्र्या कर्म कुर्वीत शान्तये।
पुष्टये पशुलाभाय धनलाभाय भूतये।।
एषा हि संहिता देवै स्सर्वब्रह्ममयी निचृत्।
उग्रेण तपसा दृष्टा विश्वामित्रेण धीमता।।
होमांश्च जपयज्ञांश्च नित्यं कुर्वीत वै तथा।
सर्वकामप्रसिद्ध्यर्थं परं ब्रह्मेदमुच्यते।।
एषा वै प्रतिलोमोक्ता शत्रुपक्षविनाशिनी।
अक्षरप्रतिलोमेय- मभिचारेषु शस्यते।।
सर्वसंहितया प्रत्यृचं होम आज्येन तिलेन वा।
आज्य न्द्रव्य मनादेशे जुहोतिषु विधीयते इति ब्राह्मोक्तेः।
सर्वपापहरो होम स्तिलै स्सर्वत्र शस्यते।। - इति विष्णुधर्मोत्तराच्च।
शातातपः (तिलहोम प्राशस्त्यम्)-
कृच्छ्रो देव्ययुतञ्चैव वेदपारायणं तथा।
तिलहोमसहस्रञ्च सममेतच्चतुष्टयम्।।
इदं केवलम्। अन्त्ये चान्द्रमसम्। इति कमलाकरभट्टकृतो वेदपारायणविधि स्समाप्तः।। 12।।
व्याख्या चरणव्यूहस्य आद्यखण्डस्य तेन वै।
यथामति विरचिता महादेवप्रसादतः।।
इति चरणव्यूहे प्रथमखण्डव्याख्यासमाप्ता। इति प्रथमः ऋग्वेदखण्ड स्समाप्तः।
द्वितीयो यजुर्वेद खण्डः
अथ यजुर्वेदखण्डः।