अध्यायाश्चतुष्षष्टिः। अग्निमीळे, अयं देवाय ... इत्यादि चतुष्षष्टिरध्याया इत्यर्थः। मण्डलानि दशैव तु। अग्निमीळे .... कुषम्भक - इत्याद्युपाकर्म प्रसिद्धानीत्यर्थः।। 10।।

वर्गाणां परिसङ्ख्यातं द्वे सहस्रे षडुत्तरे।

(2,006 वर्गाः + संज्ञानसूक्तम् 4 - 2010 वर्गाः)

सहस्रमेकं सूक्तानां निर्विशङ्कं विकल्पितम्।। (1017 सूक्तानि)

दश सप्तसु पठ्यन्ते सङ्ख्यातं वै पदक्रमम्।

एकशतसहस्रं वा द्वित्रिपञ्चाशत्सहस्रार्द्ध मेतानि चतुर्दश वासिष्ठानाम्। इतरेषां पञ्चाशीतिः। क्रमकाले तु वेष्टव्यं चतुस्त्रिंशत्सहस्राणि तु द्विखण्डानां सहस्राणां द्वात्रिंशत् षोडशोत्तरा। चत्वारिंशत्सहस्राणि द्वात्रिंशतञ्चाक्षर सहस्राणि।

ऋचा न्दश सहस्रणि ऋचां पञ्च शतानि च।

ऋचा मशीतिपादश्चै- तत्पारायणमुच्यते।। (10,580 ऋचः)

एकर्च एकवर्गश्च एकश्च नवकस्तथा।

द्वौ वर्गौ तु द्वृचौ ज्ञेयौ ऋक्त्रयश्च शतं स्मृतम्।।

चतुर्ऋचां पञ्च सप्त मधिकञ्च शतन्तथा।

पञ्चर्चञ्च द्विशद्युक्तं सहस्रं रुद्रसंयुतम्।।

पञ्च चत्वार्यधिकन्तु षडृचां च शतत्रयम्।

सप्तर्चस्य शतं ज्ञेयं विंशतिश्चधिका स्मृता।.

अष्टऋचां तु पञ्चाशत् पञ्चाधिकं तथैव च।

दशाधिकद्विसहस्रं पञ्चशाखासु निश्चिता।।

वर्गा स्संज्ञानसूक्तस्य चत्वारश्चात्र मीलिताः।

एवं पारायणे प्रोक्ता ऋचा सङ्ख्येन न्यूनतः।। 11।।

वर्गादि आऋचान्ताः सङ्ख्या, वालखिल्यै र्विना ज्ञेया। षडुत्तरसहस्रद्वय वर्गा (2006) इत्यर्थः। सहस्रमेकं सूक्तानां निर्विशङ्कं विकल्पितम्। दश सप्तसु पठ्यन्ते- सप्तदशाधिकसहस्रं (1017) सूक्तानीत्यर्थः।

सङ्ख्यातं वै पदक्रमं- एकं शतसहस्रं वा द्विपञ्चाशत् त्सहस्रार्धमेतानि चतुर्द्दश पदानि वासिष्ठानाम्। इतरेषां पञ्चाशीतिः। एकलक्ष-द्विपञ्चाशत्सहस्र-पञ्चशत-चतुर्द्दश 1,52,514 वासिष्ठानाम्। वासिष्ठगोत्रीयाणां इन्द्रोतिभिः (अष्ट..3 अ..3 वर्ग 23) इति एकसप्ततिपदात्मको (71 पदानि) वर्गो नास्ति। इतरगोत्रीयाणां पञ्चाशीत्यधिक 85 पदानीत्यर्थः।

अथ वालखिल्यसहिता पदसङ्ख्योच्यते-

लक्षैकं तु त्रिपञ्चाशत्सहस्रं शतसप्तकम्।

पदानि च द्विनवतिः प्रमाणं शाकलस्य च।। 1।।

एकलक्ष-त्रिपञ्चाशत्सहस्र- सप्तशत-द्विनवति श्चाधिकानि (153792) पदानीत्यर्थः।

पदानि वालखिल्यस्य ह्यर्कसङ्ख्याशतानि च।

अधिकानि तु सप्तैव वर्गा अष्टादश स्मृताः।। 1।। (वालखिल्यानां वर्गाः 18,

सप्ताधिक-द्वादशशतानि (1207) पदानीत्यर्थः। इत्याश्वलायनानाम्। शाङ्खायनानां तु वालखिल्यसहित पदसङ्ख्योच्यते-

शाकल्यदृष्टे पदलक्षमेकं सार्द्धन्तु वेदे त्रिसहस्रयुक्तम्।

शतानि सप्तैव तथाधिकानि चत्वारि त्रिंशच्च पदानि चर्च्चा।। 1।।

शाकल्यो माण्डूकगणस्थः। संहिता पदानि एकलक्ष- त्रिपञ्चाशत्सहस्र- सप्तशत- चतुस्रिंश-दधिकानि (153,734) पदानीत्यर्थः।

पदानि वालखिल्यस्य रुद्रसङ्ख्याशतानि च।

षट्पञ्चाशदधिकानि वर्गाः सप्तदशास्तथा।।1।। (1156 पदानि)

एकादशशत षट्पञ्चाशदधिकं वालखिल्ये (1956) पदानीत्यर्थः। अष्टपञ्चाशत्पदात्मक ऋक्त्रयस्य, यमृत्विज (अष्ट 6 अ.. 4 वर्ग 29) इति वर्गो नास्ति। परन्तु हविष्पान्तीयसूक्ते द्वे समीची (अष्ट8 अ4 वर्ग13) वर्गे- त्रिऋचानन्तरम्, (यावन्मात्रमुषस इत्येतस्या ऋचः प्राक्) एक एवाग्निः- इत्यृचं, यमृत्विज इत्यृचञ्च खिलरूपेण पठन्ति। तेषां शाङ्खायानानां ज्योतिष्मन्तम् (अष्ट6 अ.4 वर्ग 29) इत्यृचोभावः। ऋक्त्रयस्य तेषामन्ते पदाभावत्वात्। अन्ते वर्गसमाप्तौ यावन्मात्रमृचं पठन्ति। एवं द्वे समीची इति षड्ऋचो वर्गः। आश्वलायनानान्तु द्वे समीची चतुर्ऋचात्मको वर्गः। इत्याश्वलायन शाङ्खायन शाखयो र्भेदेन अध्ययनं भवतीत्यर्थः।

खिलपाठ लक्षणम्

यस्य मन्त्रस्य पदपाठस्य अभावः, तस्य खैलिकत्वं सिद्धम्। तर्हि त्र्यम्बकँ यजामह (अष्ट.. 5 अ.. 4 वर्ह 30) इति मन्त्रस्य पदाभावात् तस्यापि खैलिकत्वं सिद्धम्? न हि। उमागानात् उपलेखायाम् (उपलेखासूत्रे)। त्र्यम्बकं (अष्ट 5 अं 4 वर्ग 30), भद्रन्नः (अष्ट 7 अ7 वर्ग 2), प्रजापते (अष्ट 8 अ 7 वर्ग 4), ऋतञ्च (अष्ट 8 अ 8 वर्ग 40) इति पदक्रम मिद मुमयाभिगीतम्। अर्द्धर्चान्ते पदगीतम्। तस्मात्पदकाले क्रमकाले च पठन्ति। (एतेषां चतुर्णां पदपाठो नास्ति। तथापि उमया गीतमिति उपलेखासूत्रे प्रस्तुतत्वात्, तेषां खैलिकत्वमसिद्धम्।)

क्रमो द्वे पदश- इति वचनात् अत्र द्वितीयं पदं नास्ति, अर्द्धर्चान्तसमापनात्। अतः (प्रथमं पठितस्य भद्रन्न इत्यस्य) क्रमाभावः। तस्मात्पदकाले क्रमकाले संहिताया एव पठनं भवति। स एव पदक्रम इत्यर्थः।

क्रमकालिक वेष्टनम्