समुद्रस्तोत्रम्

नमस्समुद्रदेवाय जलधीशाय ते नमः। नदीनां पतये तुभ्यं नित्यमेव नमोनमः।। १

नूनं दर्शनमात्रेण पापबुद्धिविनाशिने। पुण्यराशिं वर्धयते कामदाय नमो नमः।। २

महापातकशान्तिं मे पर्वणि स्पृशतः कुरु। उपपातकशान्तिं च कुर्वाणाय नमो नमः।। ३

नदीस्रोतोवेगपीडा धारयित्रे नमो नमः। नित्यशान्ताय देवाय शमयित्रे नमो नमः।। ४

वयुनाय महारोग-चर्मरोगोपशान्तये। स्योनस्थानप्रदायास्तु- पापघ्ने ते नमोनमः।। ५

क्षाराम्बुनिधये तुभ्यं क्षीरसागररूपिणे। शयनाय महाविष्णोः श्वशुराय नमो नमः।। ६

त्रेतायुगे च श्रीराम-सेतुनिर्माणहेतवे। मैनाकादिगोत्रजात- समाधाराय ते नमः।। ७

पुरी द्वारावती पुण्या यस्य गर्भे समास्थिता। श्रीकृष्णप्रेमपात्राय सिन्धूनां पतये नमः।। ८

मणिशङ्खमहानर्घ-रत्नगर्भाय ते नमः। लवणेभ्यः पोषयित्रे पाकस्थाम्ने नमोनमः।। ९

समुद्रस्य स्नानकाले स्तोत्रमेतत् पठन् नरः। पुण्यसञ्चयमुद्वर्ध्य पूतात्मा भवति ध्रुवम्।।१०

==00==