ब्रह्मा मुरारि स्त्रिपुरान्तकश्च भानुश्शशी भूमिसुतो बुधश्च।
गुरुश्च शुक्र श्शनि राहुकेतवः कुर्वंतु सर्वे मम सुप्रभातम्।। 7
भृगु र्वसिष्ठः क्रतु रंगिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः।
रैभ्यो मरीचिश्च्यवनोथ दक्षः कुर्वंतु सर्वे मम सुप्रभातम्। 8
सनत्कुमारश्च सनन्दनश्च सनातनो प्यासुरि संहलौ च।
सप्तस्वरा स्सप्तरसातलानि कुर्वंतु सर्वे मम सुप्रभातम्।। 9
सप्तार्णवा स्सप्तकुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त।
भूरादिलोका भुवनानि सप्त कुर्वंतु सर्वे मम सुप्रभातम्।। 10
पृथ्वी सगंधा सरसास्तदापः स्पर्शश्च वायुर्ज्वलितं च तेजः।
नभ स्सशब्दं महता सहैव कुर्वंतु सर्वे मम सुप्रभातम्।। 11
गुरु र्ब्रह्मा गुरुर्विष्णु र्गुरुर्देवो महेश्वरः।
गुरु स्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः।। 12