नमस्सवित्रे जगदेक चक्षुषे
जगत्प्रसूति स्थिति नाश हेतवे।
त्रयीमयाय त्रिगुणात्म धारिणे
विरिंचि नारायण शंकरात्मने।।
ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्।। 1
दैवतैश्च समागम्य द्रष्टु मभ्यागतो रणम्।
उपागम्याब्रवीद्राम मगस्त्यो भगवानृषिः।। 2
राम राम महाबाहो शृणु गुह्यं सनातनम्।
येन सर्वा नरीन्वत्स समरे विजयिष्यसि।। 3
आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम्।
जयावहं जपे न्नित्य मक्षय्यं परमं शिवम्।। 4
सर्वमंगळ मांगल्यं सर्वपाप प्रणाशनम्।
चिन्ता शोक प्रशमन मायु र्वर्धन मुत्तमम्।। 5
रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम्।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्।। 6
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुर गणान् लोकान् पाति गभस्तिभिः।। 7
एष ब्रह्मा च विष्णुश्च शिव स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यम स्सोमो ह्यपां पतिः।। 8
पितरो वसव स्साध्या ह्यश्विनौ मरुतो मनुः।
वायु र्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः।। 9
आदित्य स्सविता सूर्यः खगः पूषा गभस्तिमान्।
सुवर्ण सदृशो भानु र्हिरण्यरेता दिवाकरः।। 10
हरिदश्व स्सहस्रार्चि स्सप्तसप्ति र्मरीचिमान्।
तिमिरोन्मथन श्शंभु स्त्वष्टा मार्तांड अंशुमान्।। 11
हिरण्यगर्भ श्शिशिर स्तपनो भास्करो रविः।
अग्नि गर्भोदितेः पुत्र श्शंख श्शिशिर नाशनः।। 12 व्योमनाथ स्तमोभेदी ऋग्यजुस्साम पारगः।
घनवृष्टि रपांमित्रो विंध्यवीथी प्लवंगमः।। 13
आतपी मण्डली मृत्युः पिंगल स्सर्वतापनः।
कवि र्विश्वो महातेजा रक्त स्सर्वभवोद्भवः।। 14
नक्षत्र ग्रह ताराणा मधिपो विश्वभावनः।
तेजसा मपि तेजस्वी द्वादशात्म न्नमोस्तुते।। 15
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः।। 16
जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नम स्सहस्रांशो आदित्याय नमो नमः।। 17
नम उग्राय वीराय सारङ्गाय नमो नमः।
नमः पद्म प्रबोधाय मार्ताण्डाय नमो नमः।। 18
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः।। 19
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः।। 20
तप्त चामीकराभाय वह्नये विश्वकर्मणे।
नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे।। 21
नाशयत्येष वै भूतं तदेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः।। 22
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्।। 23
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः।। 24
एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन् पुरुष कश्चिन्नावसीदति राघव।। 25
पूजयस्वैन मेकाग्रो देवदेवं जगत्पतिम्।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि।। 26
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि।
एव मुक्त्वा तदागस्त्यो जगाम च यथागतम्।। 27
एतच्छ्रुत्वा महातेजा नष्टशोकोभव त्तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान्।। 28
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्ष मवाप्तवान्।
त्रिराचम्य शुचि र्भूत्वा धनु रादाय वीर्यवान्।। 29
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्।
सर्व यत्नेन महता वधे तस्य धृतोभवत्।। 30
अथ रवि रवद न्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः।
निशिचर पति सङ्क्षयं विदित्वा
सुरगण मध्यगतो वच स्त्वरेति।। 31
इत्यार्षे श्रीमद्रामायणे युद्धकाण्डे आदित्य हृदय स्तोत्रं संपूर्णम्।
ध्येयस्सदा सवितृ मण्डल मध्यवर्ती
नारायण स्सरसिजासन सन्निविष्टः।
केयूरवान् मकर कुण्डलवान् किरीटी
हारी हिरण्मय वपु र्धृत शंख चक्रः।।
मित्र रवि सूर्य भानु खग पूष हिरण्यगर्भ
मरीच्यादित्य सवित्रर्क भास्करेभ्यो नमः।।